This page has been fully proofread once and needs a second look.

<page>
<ignore>
अनात्मश्रीविगर्हणप्रकरणम् ।
 
१४९</ignore>
<verse>
धातुर्लोकः साधितो वा ततः किं

विष्णोर्लोको वीक्षितो वा ततः किम् ।

शंभोर्लोक:कः शासितो वा ततः किं
 
१४९
 

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १६ ॥
 
</verse>
<verse>
यस्येदं हृदये सम्यगनात्मश्रीविगर्हणम् ।

सदोदेति स एवात्मसाक्षात्कारस्य भाजनम् ॥ १७ ॥
 
</verse>
<verse>
अन्ये तु मायिकजगद्भाभ्रान्तिव्यामोहमोहिताः ।

न तेषां जायते क्वापि स्वात्मसाक्षात्कृतिर्भुवि ॥ १८ ॥
 
</verse>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
 

अनात्मश्रीविगर्हणप्रकरणं

संपूर्णम् ॥
 
</trailer>
</page>