2026-02-24 05:33:02 by ambuda-bot
This page has not been fully proofread.
अनात्मश्रीविगर्हणप्रकरणम् ।
धातुर्लोकः साधितो वा ततः किं
विष्णोर्लोको वीक्षितो वा ततः किम् ।
शंभोर्लोक: शासितो वा ततः किं
१४९
येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १६ ॥
यस्येदं हृदये सम्यगनात्मश्रीविगर्हणम् ।
सदोदेति स एवात्मसाक्षात्कारस्य भाजनम् ॥ १७ ॥
अन्ये तु मायिकजगद्भान्तिव्यामोहमोहिताः ।
न तेषां जायते क्वापि स्वात्मसाक्षात्कृतिर्भुवि ॥ १८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
अनात्मश्रीविगर्हणप्रकरणं
संपूर्णम् ॥