This page has been fully proofread once and needs a second look.

<page>
<ignore>
१४८
 
अनात्मश्रीविगर्हणप्रकरणम् ।
 
</ignore>
<verse>
भूपेन्द्रत्वं प्राप्तमुय ततः किं
 
र्व्यां ततः किं
देवेन्द्रत्वं संभृतं वा ततः किम् ।

मुण्डीन्द्रत्वं चोपलब्धं ततः किं
 

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १२ ॥
 
</verse>
<verse>
मन्त्रैः सर्वः स्तम्भितो वा ततः किं
 

बाणैर्लक्ष्यो भेदितो वा ततः किम् ।

कालज्ञानं चापि लब्धं ततः किं
 

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १३ ॥
 
</verse>
<verse>
कामातङ्कः खण्डितो वा ततः किं
 

कोपावेशः कुण्ठितो वा ततः किम् ।
 

लोभाश्लेषो वर्जितो वा ततः किं
 

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १४ ॥
 
</verse>
<verse>
मोहध्वान्तः पेषितो वा ततः किं
 

जातो भूमौ निर्मदो वा ततः किम् ।

मात्सर्यार्तिर्मीलिता वा ततः किं
 

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १५ ॥
 
</verse>
</page>