This page has not been fully proofread.

अनात्मश्रीविगर्हणप्रकरणम् ।
 
युद्धे शत्रुर्निर्जितो वा ततः किं
 
भूयो मित्रैः पूरितो वा ततः किम् ।
योग: प्राप्ताः सिद्धयो वा ततः किं
 
येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ८ ॥
 
अब्धिः पद्भयां लङ्घितो वा ततः किं
 
वायुः कुम्भे स्थापितो वा ततः किम् ।
 
मेरुः पाणावुद्धृतो वा ततः किं
 
येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ९ ॥
 
स्वेल: पीतो दुग्धवद्वा ततः किं
 
वह्निर्जग्धो लाजवद्वा ततः किम् ।
 
प्राप्तश्वारः पक्षिवत्खे ततः किं
 
१४७
 
येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १० ॥
 
बद्धाः सम्यक्पावकाद्यास्ततः किं
 
साक्षाद्विद्धा लोहवर्यास्ततः किम् ।
 
लब्धो निक्षेपोऽञ्जनाद्यैस्ततः किं
 
येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ११ ॥