This page has been fully proofread once and needs a second look.

<page>
<ignore>
१४६
 
अनात्मश्रीविगर्हणप्रकरणम् ।
 
</ignore>
<verse>
स्नातस्तीर्थे जह्रुजादौ तत: किं
 
तः किं
दानं दत्तं द्व्यष्टसंख्यं ततः किम् ।

जप्ता मन्त्राः कोटिशो वा ततः किं
 

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ४ ॥
 
</verse>
<verse>
गोत्रं सम्यग्भूषितं वा ततः किं
 

गात्रं भस्माच्छादितं वा ततः किम् ।
 

रुद्राक्षादिः सद्धृतो वा ततः किं
 

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ५ ॥
 
</verse>
<verse>
अन्नैर्विप्रास्तर्पिता वा ततः किं
 

यज्ञैर्देवास्तोषिता वा ततः किम् ।

कीर्त्या व्याप्ताः सर्वलोकास्ततः किं
 

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ६ ॥
 
</verse>
<verse>
काय:यः क्लिष्टश्चोपवासैस्ततः किं
 

लब्धाः पुत्राः स्वीयपत्न्यास्ततः किम् ।

प्राणायामः साधितो वा ततः किं
 

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ७ ॥
 
</verse>
</page>