This page has been fully proofread once and needs a second look.

<page>
<subtitle>
॥ श्रीः ॥
 
</subtitle>
<title>
॥ अनात्मश्रीविगर्हणप्रकरणम् ॥
 
</title>
<verse>
लब्धा विद्या राजमान्या ततः किं
 

प्राप्ता संपत्प्राभवाढ्या ततः किम् ।

भुक्ता नारी सुन्दराङ्गी तत: किं
 

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १ ॥
 
</verse>
<verse>
केयूराद्यैर्भूषितो वा ततः किं

कौशेयाद्यैरावृतो वा ततः किम् ।
 

तृप्तो मृष्टान्नादिना वा ततः किं
 

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ २ ॥
 
</verse>
<verse>
दृष्टा नाना चारुदेशास्तत: किं
 
तः किं
पुष्टश्चेष्टा बन्धुवर्गास्ततः किम् ।
 

नष्टं दारिद्र्यादिदुःखं ततः किं
 

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ३ ॥
 
</verse>
</page>