This page has not been fully proofread.

जीवन्मुक्तानन्दलहरी ।
 
कदाद्वैतं पश्यन्नखिलमपि सत्यं शिवमयं
 
महावाक्यार्थानामवगतिसमभ्यासवशतः ।
गतद्वैताभासः शिव शिव शिवेत्येव विलप
 
१४१
 
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १६ ॥
 
इमां मुक्तावस्थां परमशिवसंस्थां गुरुकृपा-
सुधापाङ्गव्याप्यां सहजसुखवाप्यामनुदिनम् ।
मुहुर्मज्जन्मज्जन्भजति सुकृतैश्चेन्नरवरः
 
सदा त्यागी योगी कविरिति वदन्तीह कवयः ॥ १७ ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगव-
 
त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
जीवन्मुक्तानन्दलहरी संपूर्णा ॥