This page has been fully proofread once and needs a second look.

<page>
<ignore>
१४०
 
जीवन्मुक्तानन्दलहरी ।
 
</ignore>
<verse>
कदाचिन्मौनस्थः क्वचिदपि च वाग्वादनिरतः

कदाचित्सानन्दं हसितरभसस्त्यक्तवचनः ।

कदाचिल्लोकानां व्यवहृतिसमालोकनपरो
 
मुनि

मुनिर्न
व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १२ ॥
 
</verse>
<verse>
कदाचिच्छक्तीनां विकचमुखपद्मेषु कमलं
 

क्षिपंस्तासां क्वापि स्वयमपि च गृह्णन्स्वमुखतः ।

तदद्वैतं रूपं निजपरविहीनं प्रकटय-
 

न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १३ ॥
 
</verse>
<verse>
क्वचिच्छेवैः साथैर्थं क्वचिदपि च शाक्तैः सह वस-

न्
कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन् ।

कदा गाणापत्यैर्गतसकलभेदोऽद्वयतया
 

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १४ ॥
 
</verse>
<verse>
निराकारं क्वापि क्वचिदपि च साकारममलं
 

निजं शैवं रूपं विविधगुणभेदेन बहुधा ।
 

कदाश्वयैचर्यं पश्यन्किमिदमिति हृष्यन्नपि कदा
 

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १५ ॥
 
</verse>
</page>