2026-02-24 05:32:59 by ambuda-bot
This page has not been fully proofread.
१४०
जीवन्मुक्तानन्दलहरी ।
कदाचिन्मौनस्थः क्वचिदपि च वाग्वादनिरतः
कदाचित्सानन्दं हसितरभसस्त्यक्तवचनः ।
कदाचिल्लोकानां व्यवहृतिसमालोकनपरो
मुनि व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १२ ॥
कदाचिच्छक्तीनां विकचमुखपद्मेषु कमलं
क्षिपस्तासां क्वापि स्वयमपि च गृह्णन्स्वमुखतः ।
तदद्वैतं रूपं निजपरविहीनं प्रकटय-
न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १३ ॥
क्वचिच्छेवैः साथै क्वचिदपि च शाक्तैः सह वस-
कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन् ।
कदा गाणापत्यैर्गतसकलभेदोऽद्वयतया
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १४ ॥
निराकारं क्वापि क्वचिदपि च साकारममलं
निजं शैवं रूपं विविधगुणभेदेन बहुधा ।
कदाश्वयै पश्यन्किमिदमिति हृष्यन्नपि कदा
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १५ ॥