This page has not been fully proofread.

जीवन्मुक्तानन्दलहरी ।
 
१३९
 
कदा गङ्गाम्भोभिः क्वचिदपि च कूपोत्थसलिलैः
क्वचित्कासारोत्थैः क्वचिदपि सदुष्णैश्च शिशिरैः ।
भजन्स्नानं भूत्या क्वचिदपि च कर्पूरनिभया
 
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ८ ॥
 
कदाचिज्जागय विषयकरणैः सव्यवहर-
 
न्कदाचित्स्वप्नस्थानपि च विषयानेव च भजन ।
कदाचित्सौषुप्तं सुखमनुभवन्नेव सततं
 
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ९ ॥
 
कदाप्याशावासाः क्वचिदपि च दिव्याम्बरधर:
क्वचित्पञ्चास्योत्थां त्वचमपि दधानः कटितटे ।
 
मनस्वी निःसङ्गः सुजनहृदयानन्दजनको
 
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १२ ॥
 
कदाचित्सत्त्वस्थः क्वचिदपि रजोवृत्तिसुगत-
 
स्तमोवृत्तिः कापि त्रितयरहितः कापि च पुनः ।
कदाचित्संसारी श्रुतिपथविहारी कचिदहो
 
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ११ ॥