This page has not been fully proofread.

१३८
 
जीवन्मुक्तानन्दलहरी ।
 
कचिद्वालैः सार्धं करतलगतालैः सहसितैः
कचित्तारुण्यालंकृतनरवधूभिः सह रमन् ।
क्वचिद्वृद्धैश्चिन्ताकुलितहृदयैश्वापि विलप-
 
न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ४ ॥
 
कदाचिद्विद्वद्भिर्विविदिषुभिरत्यन्तनिरतैः
 
कदाचित्काव्यालंकृतिरसरसालैः कविवरैः
 
कदाचित्सत्तर्कैरनुमितिपरैस्तार्किकवरै-
 
1
 
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ५ ॥
 
कदा ध्यानाभ्यासैः क्वचिदपि सपय विकसितैः
सुगन्धैः सत्पुष्पैः क्वचिदपि दलैरेव विमलः ।
प्रकुर्वन्देवस्य प्रमुदितमनाः संनतिपरो
 
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ६ ॥
 
शिवायाः शंभोर्वा क्वचिदपि च विष्णोरपि कदा
गणाध्यक्षस्यापि प्रकटितवरस्यापि च कदा ।
 
पठन्वै नामालिं नयनरचितानन्दसरितो
 
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ७ ॥