2026-03-05 05:52:54 by akprasad
This page has been fully proofread once and needs a second look.
<subtitle>॥ श्रीः ॥</subtitle>
<title>॥ जीवन्मुक्तानन्दलहरी ॥
<verse>पुरे पौरान्पश्यन्नरयुवतिनामाकृतिम
न्सुवेषान्स्वर्णालंकरणकलितांश्चित्रसदृशान् ।
स्वयं साक्षाद्दृष्टेत्यपि च कलयंस्तैः सह रम-
न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १ ।
<verse>वने वृक्षान्पश्यन्दलफलभरान्नम्र
न्घनच्छायाच्छन्नान्बहुलकलकूजद्
भजन्घस्रोरात्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ २ ॥
<verse>कदाचित्प्रासादे क्वचिदपि च सौधेषु धनिनां
कदा काले शैले क्वचिदपि च कूलेषु सरिताम् ।
कुटीरे दान्तानां मुनिजनवराणामपि वस-
न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ३ ॥
</page>