This page has not been fully proofread.

11 eft: 11
 
॥ जीवन्मुक्तानन्दलहरी ॥
 
पुरे पौरान्पश्यन्नरयुवतिनामाकृतिमयां-
न्सुवेषान्स्वर्णालंकरणकलितांश्चित्रसदृशान् ।
 
स्वयं साक्षाद्दृष्टेत्यपि च कलयंस्तैः सह रम-
न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १ ।
 
वने वृक्षान्पश्यन्दलफलभरान्नम्र सुशिखा-
न्घनच्छायाच्छन्नान्बहुलकलकूजद्दिजगणान् ।
भजन्घस्रोरात्त्रादवनितलकल्पैकशयनो
 
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ २ ॥
 
कदाचित्प्रासादे क्वचिदपि च सौधेषु धनिनां
 
कदा काले शैले क्वचिदपि च कूलेषु सरिताम् ।
कुटीरे दान्तानां मुनिजनवराणामपि वस-
 
न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ३ ॥