2026-03-05 05:45:59 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१२८
</ignore>
<ignore>उपदेशपञ्चकम् ।
</ignore>
<verse>क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां
स्वाद्वन्नं न तु याच्यतां विधिवशात्प्राप्तेन संतुष्यताम् ।
शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यता-
मौदासीन्यमभीप्स्यतां जनकृपानैष्टुर्यमुत्सृज्यताम् ॥
</verse>
<verse>एकान्ते सुखमास्यतां परतरे चेतः समाधीयतां
पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम् ।
प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यतां
प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम् ॥
</verse>
<trailer>इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग-
वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
उपदेशपञ्चकं संपूर्णम् ॥
</trailer>
</page>