2026-03-07 06:39:03 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>योगतारावली ।
१२३
</ignore>
<verse>प्रत्यग्विमर्शातिशयेन पुंसां
प्राचीनगन्धेषु पलायितेषु ।
प्रादुर्भवेत्काचिदजाड्यनिद्रा
प्रपञ्चचिन्तां परिवर्जयन्ती ॥ २४ ॥
</verse>
<verse>विच्छिन्नसंकल्पविकल्पमूले
निःशेषनिर्मूलितकर्मजाले ।
निरन्तराभ्यासनितान्तभद्रा
सा जृम्भते योगिनि योगनिद्रा ॥ २५ ॥
</verse>
<verse>विश्रान्तिमासाद्य तुरीयतल्पे
विश्वाद्यवस्थात्रितयोपरिस्थे ।
संविन्मययीं कामपि सर्वकालं
निद्रां सखे निर्विश निर्विकल्पाम् ॥ २६ ॥
</verse>
<verse>प्रकाशमाने परमात्मभानौ
नश्यत्यविद्यातिमिरे समस्ते ।
अहो बुधा निर्मलदृष्टोटयोऽपि
किंचिन्न पश्यन्ति जगत्समग्रम् ॥ २७ ॥
</verse>
</page>
<ignore>योगतारावली ।
<verse>प्रत्यग्विमर्शातिशयेन पुंसां
प्राचीनगन्धेषु पलायितेषु ।
प्रादुर्भवेत्काचिदजाड्यनिद्रा
प्रपञ्चचिन्तां परिवर्जयन्ती ॥ २४ ॥
<verse>विच्छिन्नसंकल्पविकल्पमूले
निःशेषनिर्मूलितकर्मजाले ।
निरन्तराभ्यासनितान्तभद्रा
सा जृम्भते योगिनि योगनिद्रा ॥ २५ ॥
<verse>विश्रान्तिमासाद्य तुरीयतल्पे
विश्वाद्यवस्थात्रितयोपरिस्थे ।
संविन्म
निद्रां सखे निर्विश निर्विकल्पाम् ॥ २६ ॥
<verse>प्रकाशमाने परमात्मभानौ
नश्यत्यविद्यातिमिरे समस्ते ।
अहो बुधा निर्मलदृष्
किंचिन्न पश्यन्ति जगत्समग्रम् ॥ २७ ॥
</page>