2026-03-07 06:37:39 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१२२
योगतारावली ।
</ignore>
<verse>प्रसह्य संकल्पपरंपराणां
संभेदने संततसावधानम् ।
आलम्बनाशादपचीयमानं
शनैः शनै: शान्तिमुपैति चेतः ॥ २० ॥
</verse>
<verse>निश्वासलोपैर्निभृतैः शरीरै-
र्नेत्राम्बुजैरर्धनिमीलितैश्च ।
आविर्भवन्तीममनस्कमुद्रा-
मालोकयामो मुनिपुंगवानाम् ॥ २१ ॥
</verse>
<verse>अमी यमीन्द्राः सहजामनस्का-
दहंममत्वे शिथिलायमाने ।
मनोतिगं मारुतवृत्तिशून्यं
गच्छन्ति भावं गगनावशेषम् ॥ २२ ॥
</verse>
<verse>निवर्तयन्तीं निखिलेन्द्रियाणि
प्रवर्तयन्तीं परमात्मयोगम् ।
संविन्मयीं तां सहजामनस्कां
कदा गमिष्यामि गतान्यभावः ॥ २३ ॥
</verse>
</page>
<ignore>१२२
<verse>प्रसह्य संकल्पपरंपराणां
संभेदने संततसावधानम् ।
आलम्बनाशादपचीयमानं
शनैः शनै: शान्तिमुपैति चेतः ॥ २० ॥
<verse>निश्वासलोपैर्निभृतैः शरीरै-
र्नेत्राम्बुजैरर्धनिमीलितैश्च ।
आविर्भवन्तीममनस्कमुद्रा-
मालोकयामो मुनिपुंगवानाम् ॥ २१ ॥
<verse>अमी यमीन्द्राः सहजामनस्का-
दहंममत्वे शिथिलायमाने ।
मनोतिगं मारुतवृत्तिशून्यं
गच्छन्ति भावं गगनावशेषम् ॥ २२ ॥
<verse>निवर्तयन्तीं निखिलेन्द्रियाणि
प्रवर्तयन्तीं परमात्मयोगम् ।
संविन्मयीं तां सहजामनस्कां
कदा गमिष्यामि गतान्यभावः ॥ २३ ॥
</page>