This page has not been fully proofread.

योगतारावली ।
 
अहंममत्वाद्वय पहाय सर्व
 
श्रीराजयोगे स्थिरमानसानाम् ।
 
न द्रष्टृता
 
नास्ति च दृश्यभावः
 
सा जृम्भते केवलसंविदेव ॥ १६ ॥
 
नेत्रे ययोन्मेषनिमेषशून्ये
 
वायुर्यया वर्जितरेचपूरः ।
 
मनश्च संकल्पविकल्पशून्यं
 
मनोन्मनी सा मयि संनिधत्ताम् ॥ १७ ॥
 
चित्तेन्द्रियाणां चिरनिग्रहेण
 
श्वासप्रचारे शमिते यमीन्द्राः ।
 
निवातदीपा इव निश्चलाङ्गाः
 
मनोन्मनीमग्नधियो भवन्ति ॥ १८ ॥
 
उन्मन्यवस्थाधिगमाय विद्वन्
 
उपायमेकं तव निर्दिशामः ।
 
पश्यन्नुदासीनतया प्रपञ्चं
 
संकल्पमुन्मूलय सावधानः ॥ १९ ॥
 
१२१