This page has not been fully proofread.

योगतारावली ।
 
बन्धत्रयाभ्यासविपाकजातां
 
विवर्जितां रेचकपूरकाभ्याम् ।
विशोषयन्तीं विषयप्रवाहं
 
विद्यां भजे केवलकुम्भरूपाम् ॥ ८ ॥
 
अनाहते चेतसि सावधानै-
रभ्यासशूरैरनुभूयमाना ।
 
संस्तम्भितश्वासमन: प्रचारा
 
सा जृम्भते केवलकुम्भकश्रीः ॥ ९ ॥
 
सहस्रशः सन्तु हठेषु कुम्भाः
 
संभाव्यते केवलकुम्भ एव ।
 
कुम्भोत्तमे यत्र तु रेचपूरौ
 
प्राणस्य न प्राकृतवैकृताख्यौ ॥ १० ॥
 
त्रिकूटनाम्नि स्तिमितेऽन्तरङ्गे
 
खे स्तम्भिंते केवलकुम्भकेन ।
 
प्राणानिलो भानुशशाङ्कनाड्यौ
 
विहाय सद्यो विलयं प्रयाति ॥ ११ ॥
 
११९