This page has been fully proofread once and needs a second look.

<page>
<ignore>
११८
 
योगतारावली ।
 
</ignore>
<verse>
नादानुसंधान नमोऽस्तु तुभ्यं

त्वां साधनं तत्त्वपदस्य जाने ।

भवत्प्रसादात्पवनेन साकं
 

विलीयते विष्णुपदे मनो मे ॥ ४ ॥
 
</verse>
<verse>
जालन्धरोड्याणनमूलबन्धा-
 

ञ्जल्पन्ति कण्ठोदरपायुमूलान् ।

बन्धन्त्रयेऽस्मिन्परिचीयमाने
 

बन्धः कुतो दारुणकालपाशात् ॥ ५ ॥
 
</verse>
<verse>
ओड्याणजालन्धरमूलबन्धै-
 

रुन्निद्रितायामुरगाङ्गनायाम् ।
 

प्रत्यङ्मुखत्वात्प्रविशन्सुषुम्नां
 

गमागमौ मुश्ञ्चति गन्धवाहः ॥ ६ ॥
 
</verse>
<verse>
उत्थापिताधारहुताशनोल्कै-
 

राकुञ्चनैः शश्वदपानवायोः ।
 

संतापिताश्ञ्च्चन्द्रमसः पतन्तीं
 

पीयूषधारां पिबतीह धन्यः ॥ ७ ॥
 
</verse>
</page>