This page has not been fully proofread.

११८
 
योगतारावली ।
 
नादानुसंधान नमोऽस्तु तुभ्यं
त्वां साधनं तत्त्वपदख जाने ।
भवत्प्रसादात्पवनेन साकं
 
विलीयते विष्णुपदे मनो मे ॥ ४ ॥
 
जालन्धरोड्याणनमूलबन्धा-
 
ञ्जल्पन्ति कण्ठोदरपायुमूलान् ।
बन्धन्त्रयेऽस्मिन्परिचीयमाने
 
बन्धः कुतो दारुणकालपाशात् ॥ ५ ॥
 
ओड्याणजालन्धरमूलबन्धै-
 
रुन्निद्रितायामुरगाङ्गनायाम् ।
 
प्रत्यङ्मुखत्वात्प्रविशन्सुषुम्नां
 
गमागमौ मुश्चति गन्धवाहः ॥ ६ ॥
 
उत्थापिताधारहुताशनोल्कै-
 
राकुञ्चनैः शश्वदपानवायोः ।
 
संतापिताश्ञ्चन्द्रमसः पतन्तीं
 
पीयूषधारां पिबतीह धन्यः ॥ ७ ॥