2026-03-07 06:28:41 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>सदाचारानुसंधानम् ।
११३
</ignore>
<verse>आत्मनो ब्रह्मणः सम्यगुपाधिद्वयवर्जितम् ।
त्वमर्थविषयं ज्ञानं विज्ञानं तत्पदाश्रयम् ॥ ४६ ॥
</verse>
<verse>पदयोरैक्यबोधस्तु ज्ञानविज्ञानसंज्ञितम् ।
आत्मानात्मविवेकस्य ज्ञानमाहुर्मनीषिणः ॥ ४७ ॥
</verse>
<verse>अज्ञानं चान्यथा लोके विज्ञानं तन्मयं जगत् ।
अन्वयव्यतिरेकाभ्यां सर्वत्रैकं प्रपश्यति ॥ ४८ ॥
</verse>
<verse>यत्तत्तु वृत्तिजं ज्ञानं विज्ञानं ज्ञानमात्रकम् ।
अज्ञानध्वंसकं ज्ञानं विज्ञानं चोभयात्मकम् ॥ ४९ ॥
</verse>
<verse>ज्ञानविज्ञाननिष्ठोऽयं तत्सद्ब्रह्मणि चार्पणम् ।
भोक्ता सत्त्वगुणः शुद्धो भोगानां साधनं रजः ॥ ५० ॥
</verse>
<verse>भोग्यं तमोगुणः प्राहुरात्मा चैषां प्रकाशकः
ब्रह्माध्ययनसंयुक्तो ब्रह्मचर्यारतः सदा ॥ ५१ ॥
</verse>
<verse>सर्वं ब्रह्मेति यो वेद ब्रह्मचारी स उच्यते ।
गृहस्थो गुणमध्यस्थः शरीरं गृहमुच्यते ॥ ५२ ॥
</verse>
<verse>गुणाः कुर्वन्ति कर्माणि नाहं कर्तेति बुद्धिमान् ।
किमुत्ग्रैश्च तपोभिश्च यस्य ज्ञानमयं तपः ॥ ५३ ॥
</verse>
</page>

किमु
</page>