2026-03-07 06:27:07 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>११२
सदाचारानुसंघानम् ।
</ignore>
<verse>तकारो विषयाध्यासो जपारागो यथा मणौ ।
ज्ञेयवस्तु परित्यागाज्ज्ञानं तिष्ठति केवलम् ॥ ३८ ॥
</verse>
<verse>त्रिपुटी क्षीणतामेति ब्रह्मनिर्वाणमृच्छति ।
मनोमात्रमिदं सर्वं तन्मनो ज्ञानमात्रकम् ॥ ३९ ॥
</verse>
<verse>अज्ञानं भ्रम इत्याहुर्विज्ञानं परमं पदम् ।
अज्ञानं चान्यथाज्ञानं मायामेतां वदन्ति ते ॥ ४० ॥
</verse>
<verse>ईश्वरं मायिनं विद्यान्मायातीतं निरञ्जनम् ।
सदानन्दे चिदाकाशे मायामेघस्तटिन्मनः ॥ ४१ ॥
</verse>
<verse>अहंता गर्जनं तत्र धारासारा हि वृत्तयः ।
महामोहान्धकारेऽस्मिन्देवो वर्षति लीलया ॥ ४२ ॥
</verse>
<verse>तस्या वृष्टेर्विरामाय प्रबोधैकसमीरणः ।
ज्ञानं दृग्दृश्ययोर्भावं विज्ञानं दृश्यशून्यता ॥ ४३ ॥
</verse>
<verse>एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं तज्ज्ञानं ज्ञानमुच्यते ॥ ४४ ॥
</verse>
<verse>विज्ञानं चोभयोरैक्यं क्षेत्रज्ञपरमात्मनोः ।
परोक्षं शास्त्रजं ज्ञानं विज्ञानं चात्मदर्शनम् ॥ ४५ ॥
</verse>
</page>