This page has been fully proofread once and needs a second look.

<page>
<ignore>
११२
 
सदाचारानुसंघानम् ।
 
</ignore>
<verse>
तकारो विषयाध्यासो जपारागो यथा मणौ ।
 

ज्ञेयवस्तु परित्यागाज्ज्ञानं तिष्ठति केवलम् ॥ ३८ ॥
 
</verse>
<verse>
त्रिपुटी क्षीणतामेति ब्रह्मनिर्वाणमृच्छति ।

मनोमात्रमिदं सर्वं तन्मनो ज्ञानमात्रकम् ॥ ३९ ॥
 
</verse>
<verse>
अज्ञानं भ्रम इत्याहुर्विज्ञानं परमं पदम् ।
 

अज्ञानं चान्यथाज्ञानं मायामेतां वदन्ति ते ॥ ४० ॥
 
</verse>
<verse>
ईश्वरं मायिनं विद्यान्मायातीतं निरञ्जनम् ।
 

सदानन्दे चिदाकाशे मायामेघस्तटिन्मनः ॥ ४१ ॥
 
</verse>
<verse>
अहंता गर्जनं तत्र धारासारा हि वृत्तयः ।

महामोहान्धकारेऽस्मिन्देवो वर्षति लीलया ॥ ४२ ॥
 
</verse>
<verse>
तस्या वृष्टेर्विरामाय प्रबोधैकसमीरणः ।
 

ज्ञानं दृग्दृश्ययोर्भावं विज्ञानं दृश्यशून्यता ॥ ४३ ॥
 
</verse>
<verse>
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ।

क्षेत्रक्षेत्रज्ञयोर्ज्ञानं तज्ज्ञानं ज्ञानमुच्यते ॥ ४४ ॥
 
</verse>
<verse>
विज्ञानं चोभयोरैक्यं क्षेत्रज्ञपरमात्मनोः ।
 

परोक्षं शास्त्रजं ज्ञानं विज्ञानं चात्मदर्शनम् ॥ ४५ ॥
 
</verse>
</page>