2026-03-07 06:25:44 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>सदाचारानुसंधानम् ।
१११
</ignore>
<verse>अहं ममेत्ययं बन्धो ममाहं नेति मुक्तता ।
बन्धमोक्षौ गुणैर्भाति गुणाः प्रकृतिसंभवाः ॥ ३० ॥
</verse>
<verse>ज्ञानमेकं सदा भाति सर्वावस्थासु निर्मलम् ।
मन्दभाग्या न जानन्ति स्वरूपं केवलं बृहत् ॥ ३१ ॥
</verse>
<verse>संकल्पसाक्षि यज्ज्ञानं सर्वलोकैक जीवनम् ।
तदेवास्मीति यो वेद स मुक्तो नात्र संशयः ॥ ३२ ॥
</verse>
<verse>प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा ।
यस्य भासावभासन्ते मानं ज्ञानाय तस्य किम् ॥ ३३ ॥
</verse>
<verse>अर्थाकारा भवेद्वृत्तिः फलेनार्थः प्रकाशते ।
अर्थज्ञानं विजानाति स एवार्थः प्रकाशते ॥ ३४ ॥
</verse>
<verse>वृत्तिव्याप्यत्वमेवास्तु फलव्याप्तिः कथं भवेत् ।
स्वप्रकाशस्वरूपत्वात्सिद्धत्वाच्च चिदात्मनः ॥ ३५ ॥
</verse>
<verse>चित्तं चैतन्यमात्रेण संयोगाच्चेतना भवेत् ।
अर्थादर्थान्तरे वृत्तिर्गन्तुं चलति चान्तरे ॥ ३६ ॥
</verse>
<verse>निराधारा निर्विकारा या दशा सोन्मनी स्मृता ।
चित्तं चिदिति जानीयात्तकाररहितं यदा ॥ ३७ ॥
</verse>
<ignore>S.P. III. 8
</ignore>
</page>
<ignore>सदाचारानुसंधानम् ।
<verse>अहं ममेत्ययं बन्धो ममाहं नेति मुक्तता ।
बन्धमोक्षौ गुणैर्भाति गुणाः प्रकृतिसंभवाः ॥ ३० ॥
<verse>ज्ञानमेकं सदा भाति सर्वावस्थासु निर्मलम् ।
मन्दभाग्या न जानन्ति स्वरूपं केवलं बृहत् ॥ ३१ ॥
<verse>संकल्पसाक्षि यज्ज्ञानं सर्वलोकैक