This page has been fully proofread once and needs a second look.

<page>
<ignore>
११०
 
सदाचारानुसंधानम् ।
 
</ignore>
<verse>
विशुद्धं केवलं ज्ञानं निर्विशेषं निरञ्जनम् ।

यदेकं परमानन्दं तत्त्वमस्यद्वयं परम् ॥ २२ ॥
 
</verse>
<verse>
शब्दस्याद्यन्तयोः सिद्धं मनसोऽपि तथैव च ।

मध्ये साक्षितया नित्यं तदेव त्वं भ्रमं जहि ॥ २३ ॥
 
</verse>
<verse>
स्थूलवैराजयोरैक्यं सूक्ष्महैरण्यगर्भयोः ।

अज्ञानमाययोरैक्यं प्रत्यग्विज्ञानपूर्णयोः ॥ २४ ॥
 
</verse>
<verse>
चिन्मात्रैकरसे विष्णौ ब्रह्मात्मैक्यस्वरूपके ।

भ्रमेणैव जगज्जातं रज्ज्वां सर्पभ्रमो यथा ॥ २५ ॥
 
</verse>
<verse>
तार्किकाणां तु जीवेशौ वाच्यावेतौ विदुर्बुधाः ।

लक्ष्यौ च सांख्ययोगाभ्यां वेदान्तैरैक्यता तयोः ॥
 
</verse>
<verse>
कार्यकारणवाच्यांशौ जीवेशौ यौ जहच्च तौ ।

अजहत्रच्च तयोर्लक्ष्यौ चिदंशावेकरूपिणौ ॥। २७ ॥
 
</verse>
<verse>
कर्मशास्त्रे कुतो ज्ञानं तर्फेके नैवास्ति निश्चयः ।

सांख्ययोगौ भिदापन्नौ शाब्दिकाः शब्दतत्पराः ॥
 
</verse>
<verse>
अन्ये पाषण्डिनः सर्वे ज्ञानवार्तासुदुर्लभाः ।
 

एकं वेदान्तविज्ञानं स्वानुभूत्या विराजते ॥ २९ ॥
 
</verse>
</page>