2026-02-24 05:32:47 by ambuda-bot
This page has not been fully proofread.
११०
सदाचारानुसंधानम् ।
विशुद्धं केवलं ज्ञानं निर्विशेषं निरञ्जनम् ।
यदेकं परमानन्दं तत्त्वमस्यद्वयं परम् ॥ २२ ॥
शब्दस्याद्यन्तयोः सिद्धं मनसोऽपि तथैव च ।
मध्ये साक्षितया नित्यं तदेव त्वं भ्रमं जहि ॥ २३ ॥
स्थूलवैराजयोरैक्यं सूक्ष्महैरण्यगर्भयोः ।
अज्ञानमाययोरैक्यं प्रत्यग्विज्ञानपूर्णयोः ॥ २४ ॥
चिन्मात्रैकरसे विष्णौ ब्रह्मात्मैक्यस्वरूपके ।
भ्रमेणैव जगज्जातं रज्ज्वां सर्पभ्रमो यथा ॥ २५ ॥
तार्किकाणां तु जीवेशौ वाच्यावेतौ विदुर्बुधाः ।
लक्ष्यौ च सांख्ययोगाभ्यां वेदान्तैरैक्यता तयोः ॥
कार्यकारणवाच्यांशौ जीवेशौ यौ जहच तौ ।
अजहत्र तयोर्लक्ष्यौ चिदंशावेकरूपिणौ ॥। २७ ॥
कर्मशास्त्रे कुतो ज्ञानं तर्फे नैवास्ति निश्चयः ।
सांख्ययोगौ भिदापन्नौ शाब्दिकाः शब्दतत्पराः ॥
अन्ये पाषण्डिनः सर्वे ज्ञानवार्तासुदुर्लभाः ।
एकं वेदान्तविज्ञानं स्वानुभूत्या विराजते ॥ २९ ॥