2026-02-24 05:32:49 by ambuda-bot
This page has not been fully proofread.
सदाचारानुसंधानम् ।
१०९
मौनं स्वाध्ययनं ध्यानं ध्येयं ब्रह्मानुचिन्तनम् ।
ज्ञानेनेति तयोः सम्यनिषेधात्तत्त्वदर्शनम् ॥ १४ ॥
अतीतानागतं किंचिन्न स्मरामि न चिन्तये ।
रागद्वेषं विना प्राप्तं भुञ्जाम्यत्र शुभाशुभम् ॥ १५ ॥
देहाभ्यास हि संन्यासो नैव काषायवाससा ।
नाहं देहोऽहमात्मेति निश्चयो न्यासलक्षणम् ॥ १६॥
अभयं सर्वभूतानां दानमाहुर्मनीषिणः ।
निजानन्दे स्पृहा नान्ये वैराग्यस्यावधिर्मता ॥ १७ ॥
वेदान्तश्रवणं कुर्यान्मननं चोपपत्तिभिः ।
योगेनाभ्यसनं नित्यं ततो दर्शनमात्मनः ॥ १८ ॥
शब्दशक्तेरचिन्त्यत्वाच्छब्दादेवापरोक्षधी: ।
प्रसुप्तः पुरुषो यद्वच्छब्देनैवावबुद्धयते ॥ १९ ॥
आत्मानात्मविवेकेन ज्ञानं भवति निश्चलम् ।
गुरुणा बोधितः शिष्यः शब्दब्रह्मातिवर्तते ॥ २० ॥
न त्वं देहो नेन्द्रियाणि न प्राणो न मनो न धीः ।
विकारित्वाद्विनाशित्वादृश्यत्वाच्च घटो यथा ॥ २१ ॥