This page has not been fully proofread.

॥ श्रीः ॥
 
॥ सदाचारानुसंधानम् ॥
 
सच्चिदानन्दकन्दाय जगदङ्कुरहेतवे ।
सदोदिताय पूर्णाय नमोऽनन्ताय विष्णवे ॥ १ ।
 
सर्ववेदान्तसिद्धान्तैर्ग्रथितं निर्मलं शिवम् ।
सदाचारं प्रवक्ष्यामि योगिनां ज्ञानसिद्धये ॥ २ ॥
 
प्रातः स्मरामि देवस्य सवितुर्भर्ग आत्मन: ।
वरेण्यं तद्धियो यो नश्चिदानन्दे प्रचोदयात् ॥ ३ ॥
 
अन्वयव्यतिरेकाभ्यां जाग्रत्स्वप्नसुषुप्तिषु ।
यदेकं केवलं ज्ञानं तदेवास्मि परं बृहत् ॥ ४ ॥
 
ज्ञानाज्ञानविलासोऽयं ज्ञानाज्ज्ञाने च शाम्यति ।
ज्ञानाज्ञाने परित्यज्य ज्ञानमेवावशिष्यते ॥ ५ ॥