This page has been fully proofread once and needs a second look.

<page>
<ignore>
प्रश्नोत्तररत्नमालिका ।
 
१०३
 
</ignore>
<verse>
कश्च कुलक्षयहेतुः
 

संतापः सज्जनेषु योऽकारि ।
 

केषाममोघवचनं
 

ये च पुनः सत्यमौनशमशीलाः ॥ ६३ ॥
 
</verse>
<verse>
किं जन्म विषयसङ्गः
 

किमुत्तरं जन्म पुत्रः स्यात् ।
 

कोऽपरिहार्यो मृत्यु:
 
युः
कुत्र पदं विन्यसेच्च दृक्पूते ॥ ६४ ॥
 
</verse>
<verse>
पात्रं किमन्नदाने
 

क्षुधितं कोऽयोंर्च्यो हि भगवदवतार: ।
 
रः ।
कश्च भगवान्महेश:
 
शः
शंकरनारायणात्मकः ॥ ६५ ॥
 
</verse>
<verse>
फलमपि भगवद्भक्ते:
 
तेः
किं तल्लोकस्वरूप साक्षात्त्वम् ।
 

मोक्षश्च को ह्यविद्या-
 

स्तमयः कः सर्ववेदभूरथ चोम् ॥ ६६ ॥
 
</verse>
</page>