This page has been fully proofread once and needs a second look.

<page>
<ignore>
१००
 
प्रश्नोत्तररत्नमालिका ।
 
</ignore>
<verse>
को धन्यः संन्यासी
 

को मान्यः पण्डितः साधुः ।

कः सेव्यो यो दाता
 

को दाता योऽर्थितृप्तिमातनुते ॥
 
</verse>
<verse>
किं भाग्यं देहवता-
 

मारोग्यं कः फली कृषिकृत् ।
 

कस्य न पापं जपत:
 
तः
कः पूर्णो यः प्रजावान्स्यात् ॥ ५
 
<fix>२ ॥</fix></verse>
<verse>
किं दुष्करं नराणां
 

यन्मनसो निग्रहः सततम् ।
 

को ब्रह्मचर्यवान्स्या-
 

द्यश्चास्खलितोर्ध्वरेतस्कः ॥ ५३
 
<fix>॥</fix></verse>
<verse>
का च परदेवतोक्ता
 

चिच्छक्तिः को जगत्भर्ता ।
 

सूर्यः सर्वेषां को
 

जीवनहेतु:तुः स पर्जन्यः ॥ ५४ ॥
 
</verse>
</page>