2026-03-22 06:44:03 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>प्रश्नोत्तररत्नमालिका ।
९९
</ignore>
<verse>कुत्रानृते ऽप्यपापं
यञ्
यच्चोक्तं धर्मरक्षार्थम् ।
को धर्मोऽभिमतो यः
शिष्टानां निजकुलीनानाम् ॥ ४७ ॥
</verse>
<verse>साधुबलं किं दैवं
कः साधुः सर्वदा तुष्टः ।
दैवं किं यत्सुकृतं
कः सुकृती श्लाध्यते च यः सद्भिः ॥ ४८ ॥
</verse>
<verse>गृहमेधिनश्च मित्रं
किं भार्या को गृही च यो यजते ।
को यज्ञो यः श्रुत्या
विहितः श्रेयस्करोनृनॄणाम् ॥ ४९ ॥
</verse>
<verse>कस्य क्रिया हि सफला
यः पुनराचारवाञ्शिष्टः ।
कः शिष्टो यो वेद-
प्रमाणवान्को हतः क्रियाभ्रष्टः ॥ ५० ॥
</verse>
</page>
<ignore>प्रश्नोत्तररत्नमालिका ।
<verse>कुत्रानृते
यञ्
यच्चोक्तं धर्मरक्षार्थम् ।
को धर्मोऽभिमतो यः
शिष्टानां निजकुलीनानाम् ॥ ४७ ॥
<verse>साधुबलं किं दैवं
कः साधुः सर्वदा तुष्टः ।
दैवं किं यत्सुकृतं
कः सुकृती श्लाध्यते च यः सद्भिः ॥ ४८ ॥
<verse>गृहमेधिनश्च मित्रं
किं भार्या को गृही च यो यजते ।
को यज्ञो यः श्रुत्या
विहितः श्रेयस्करो
<verse>कस्य क्रिया हि सफला
यः पुनराचारवाञ्शिष्टः ।
कः शिष्टो यो वेद-
प्रमाणवान्को हतः क्रियाभ्रष्टः ॥ ५० ॥
</page>