This page has not been fully proofread.

प्रश्नोत्तररत्नमालिका ।
 
९९
 
कुत्रानृते ऽप्यपापं
 
यञ्चोक्तं धर्मरक्षार्थम् ।
 
को धर्मोऽभिमतो यः
 
शिष्टानां निजकुलीनानाम् ॥ ४७ ॥
 
साधुबलं किं दैवं
 
कः साधुः सर्वदा तुष्टः ।
 
दैवं किं यत्सुकृतं
 
कः सुकृती लाध्यते च यः सद्भिः ॥ ४८ ॥
 
गृहमेधिनश्च मित्रं
 
किं भार्या को गृही च यो यजते ।
 
को यज्ञो यः श्रुत्या
 
विहितः श्रेयस्करो नृणाम् ॥ ४९ ॥
 
कस्य क्रिया हि सफला
 
यः पुनराचारवाञ्शिष्टः ।
 
कः शिष्टो यो वेद-
 
प्रमाणवान्को हतः क्रियाभ्रष्टः ॥ ५० ॥