This page has been fully proofread once and needs a second look.

<page>
<ignore>
प्रश्नोत्तररत्नमालिका !
 
। ९७</ignore>
<verse>
का कल्पलता लोके
 

सच्छिष्यायार्पिता विद्या ।
 

कोऽक्षयवटवृक्षः स्या-
 

द्विधिवत्सत्पात्रदत्तदानं यत् ॥ ३९ ॥
 
</verse>
<verse>
किं शस्त्रं सर्वेषां
 

युक्तिर्माता च का धेनुः ।
 

किं नु बलं यद्धैर्
 
यं
को मृत्युर्यदवधानरहितत्वम् ॥ ४० ॥
 
</verse>
<verse>
कुत्र विषं दुष्टजने
 

किमिहाशौचं भवेदृणं नृनॄणाम् ।
 

किमभयमिह वैराग्यं
 

भयमपि किं वित्तमेव सर्वेषाम् ॥ ४१ ॥
 
</verse>
<verse>
का दुर्लभा नराणां
 

हरिभक्ति:तिः पातकं च किं हिंसा ।
 

को हि भगवत्प्रियः स्या-
 

द्योऽन्यं नोद्वेजयेदनुद्विःविग्नः ॥ ४२ ॥
 
९७
 
</verse>
</page>