This page has not been fully proofread.

९६.
 
प्रश्नोत्तररत्नमालिका ।
 
किं स्मर्तव्यं पुरुषै-
 
हरिनाम सदा न यावनी भाषा ।
 
को हि न वाच्यः सुधिया
परदोषश्चानृतं तद्वत् ॥ ३५ ॥
 
किं संपाद्यं मनुजै-
 
विद्या वित्तं बलं यशः पुण्यम् ।
 
कः सर्वगुणविनाशी
 
लोभ:
 
शत्रुश्च कः कामः ॥ ३६ ॥
 
का च सभा परिहार्या
 
हीना या वृद्धसचिवेन ।
 
इह कुत्रावहितः स्या-
 
न्मनुजः किल राजसेवायाम् ॥ ३७ ॥
 
प्राणादपि को रम्यः
 
कुलधर्मः साधुसङ्गश्व ।
 
का संरक्ष्या कीर्तिः
 
पतिव्रता नैजबुद्धिश्व ॥ ३८ ॥