This page has not been fully proofread.

प्रश्नोत्तररत्नमालिका ।
 
केनाशोच्यः पुरुषः
 
प्रणतकलत्रेण धीरविभवेन
 
इह भुवने कः शोच्य :
 
1
 
सत्यपि विभवे न यो दाता ॥ ३१ ॥
 
किं लघुताया मूलं
 
प्राकृतपुरुषेषु या याच्ञा ।
 
रामादपि कः शूरः
 
स्मरशरनिहतो न यश्चलति ॥ ३२ ॥
 
कि महर्निशमनुचिन्त्यं
 
भगवच्चरणं न संसारः ।
 
चक्षुष्मन्तोऽप्यन्धाः
 
के स्युर्ये नास्तिका मनुजाः ॥ ३३ ॥
 
कः पङ्गुरिह प्रथितो
 
व्रजति च यो वार्धके तीर्थम
 
किं तीर्थमपि च मुख्यं
 
चित्तमलं यन्निवर्तयति ॥ ३४ ॥
 
C. P. III 7
 
९५