This page has not been fully proofread.

प्रश्नोत्तररत्नमालिका ।
 
९३
 
विद्युद्विलसितचपलं
 
किं दुर्जनसंगतिर्युवतयश्च ।
 
कुलशीलनिष्प्रकम्पा:
 
के कलिकालेऽपि सज्जना एव ॥ २३ ॥
 
चिन्तामणिरिव दुर्लभ -
 
मिह किं कथयामि तचतुर्भद्रम् ।
 
किं तद्वदन्ति भूयो
 
विधूततमसो विशेषेण ॥ २४ ॥
 
दानं प्रियवाक्सहितं
 
ज्ञानमगर्व क्षमान्वितं शौर्यम् ।
 
वित्तं त्यागसमेतं
 
दुर्लभमेतच्चतुर्भद्रम् ॥ २५ ॥
 
किं शोच्यं कार्पण्यं
 
सति विभवे किं प्रशस्तमौदार्यम् ।
 
कः पूज्यो विद्वद्भिः
 
स्वभावतः सर्वदा विनीतो यः ॥ २६ ॥