This page has been fully proofread once and needs a second look.

<page>
<ignore>
९२
 
प्रश्नोत्तररत्नमालिका ।
 
</ignore>
<verse>
कस्मै नमांसि देवा:
 
वाः
कुर्वन्ति दयाप्रधानाय ।

कस्मादुद्वेगः स्या-
 

त्संखासारारण्यतः सुधियः ॥ १९ ॥
 
</verse>
<verse>
कस्य वशे प्राणिगण:
 
णः
सत्यप्रियभाषिणो विनीतस्य ।
 

क्व
स्थातव्यं न्याय्ये
 

पथि दृष्टादृष्टलाभाठ्ढ्ये ॥ २० ॥
 
</verse>
<verse>
कोऽन्धो योऽकार्यरत:
 
तः
को बधिरो यो हितानि न शृणोति ।
 

को मूको य:यः काले
 

प्रियाणि वक्तुं न जानाति ॥ २१ ॥
 
</verse>
<verse>
किं दानमनाकाङ्क्ष
 

किं मित्रं यो निवारयति पापात् ।
 

कोऽलंकारः शीलं
 

किं वाचां मण्डनं सत्यम् ॥ २२ ॥
 
</verse>
</page>