2026-03-22 05:40:10 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>प्रश्नोत्तररत्रमालिका ।
८९
</ignore>
<verse>कस्माद्भयमिह मरणा-
दन्धादिह को विशिष्यते रागी ।
कः शूरो यो ललना-
लोचनबाणैर्न च व्यधितः ॥ ७ ॥ ●
</verse>
<verse>पातुं कर्णाञ्जलिभिः
किममृतमिह युज्यते सदुपदेशः ।
किं गुरुताया मूलं
यदेतदप्रार्थनं नाम ॥ ८ ॥
</verse>
<verse>किं गहनं स्त्रीचरितं
कश्चतुरो यो न खण्डितस्तेन ।
किं दुःखमसंतोषः
किं लाघवमधमतो याच्याञा ॥ ९ ॥
</verse>
<verse>किं जीवितमनवद्यं
किं जाड्यं पाठतोऽप्यनभ्यासः ।
को जागर्ति विवेकी
का निद्रा
मूढता
जन्तोः ॥ १० ॥
</verse>
</page>
<ignore>प्रश्नोत्तररत्रमालिका ।
<verse>कस्माद्भयमिह मरणा-
दन्धादिह को विशिष्यते रागी ।
कः शूरो यो ललना-
लोचनबाणैर्न च व्यधितः ॥ ७ ॥
<verse>पातुं कर्णाञ्जलिभिः
किममृतमिह युज्यते सदुपदेशः ।
किं गुरुताया मूलं
यदेतदप्रार्थनं नाम ॥ ८ ॥
<verse>किं गहनं स्त्रीचरितं
कश्चतुरो यो न खण्डितस्तेन ।
किं दुःखमसंतोषः
किं लाघवमधमतो याच्
<verse>किं जीवितमनवद्यं
किं जाड्यं पाठतोऽप्यनभ्यासः ।
को जागर्ति विवेकी
का निद्रा
</page>