This page has been fully proofread once and needs a second look.

<page>
<ignore>
८४
 
ब्रह्मानुचिन्तनम् ।
 
</ignore>
<verse>
न चाकाशो न शब्दश्च न च स्पर्शस्तथा रसः ।
 

नाहं गन्धो न रूपं च न मायाहं न संसृतिः ॥ २३ ॥
 
</verse>
<verse>
सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवल: ।
लः ।
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ॥ २४ ॥
 
सर्व
</verse>
<verse>मयि सर्वं
लयं याति तद्ब्रह्मास्म्यहमद्वयम् ।

सर्वज्ञोऽहमनन्तोऽहं सर्वेश:शः सर्वशक्तिमान् ॥ २५ ॥
 
</verse>
<verse>
आनन्दः सत्यबोधोऽहमिति ब्रह्मानुचिन्तनम् ।

अयं प्रपञ्चो मिथ्यैव सत्यं ब्रह्माहमव्ययम् ॥ २६ ॥
 
</verse>
<verse>
अत्र प्रमाणं वेदान्ता गुरवोऽनुभवस्तथा ।
 

ब्रह्मैवाहं न संसारी न चाहं ब्रह्मणः पृथक् ॥ २७ ॥
 
</verse>
<verse>
नाहं देहो न मे देहः केवलोऽहं सनातनः ।

एकमेवाद्वितीयं वै ब्रह्मणो नेह किंचन ॥ २८ ॥
 
</verse>
<verse>
हृदयकमलमध्ये दीपवद्वेदसारं
 

प्रणवमयमतयैर्क्यं योगिभिर्ध्यानगम्यम् ।
 

हरिगुरुशिवयोगं सर्वभूतस्थमेकं
 

सकृदपि मनसा वै चिन्तयेद्यः स मुक्त:तः ॥ २९ ॥
 
</verse>
</page>