2026-02-24 05:32:38 by ambuda-bot
This page has not been fully proofread.
८४
ब्रह्मानुचिन्तनम् ।
न चाकाशो न शब्दश्च न च स्पर्शस्तथा रसः ।
नाहं गन्धो न रूपं च न मायाहं न संसृतिः ॥ २३ ॥
सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवल: ।
मय्येव सकलं जातं मयि सर्व प्रतिष्ठितम् ॥ २४ ॥
सर्व लयं याति तद्ब्रह्मास्म्यहमद्वयम् ।
सर्वज्ञोऽहमनन्तोऽहं सर्वेश: सर्वशक्तिमान् ॥ २५ ॥
आनन्दः सत्यबोधोऽहमिति ब्रह्मानुचिन्तनम् ।
अयं प्रपञ्चो मिथ्यैव सत्यं ब्रह्माहमव्ययम् ॥ २६ ॥
अत्र प्रमाणं वेदान्ता गुरवोऽनुभवस्तथा ।
ब्रह्मैवाहं न संसारी न चाहं ब्रह्मणः पृथक् ॥ २७ ॥
नाहं देहो न मे देहः केवलोऽहं सनातनः ।
एकमेवाद्वितीयं वै ब्रह्मणो नेह किंचन ॥ २८ ॥
हृदयकमलमध्ये दीपवद्वेदसारं
प्रणवमयमतयै योगिभिर्ध्यानगम्यम् ।
हरिगुरुशिवयोगं सर्वभूतस्थमेकं
सकृदपि मनसा वै चिन्तयेद्यः स मुक्त: ॥ २९ ॥