2026-04-25 02:30:59 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>शतश्लोकी ।
७३
</ignore>
<verse>तिष्ठन्गेहे गृहेशोऽप्यतिथिरिव निजं धाम गन्तुं चिकीर्षु-
र्देहस्थं दुःखसौख्यं न भजति सहसा निर्ममत्वाभिमानः ।
आयात्रायास्यतीदं जलदपटलवद्यातृ यास्यत्यवश्यं
देहाद्यं सर्वमेवं प्रविदितविशयो यश्च तिष्ठत्ययत्नः ॥ १६ ॥
</verse>
<verse>शक्त्या निर्मोकतः स्वाद्वहिरहिरिव यः प्रव्रजन्स्वीयगेहा-
च्छायां मार्गद्रुमोत्थां पथिक इव मनाक्संश्रयेद्देहसंस्थाम् ।
क्षुत्पर्याप्तं तरुभ्यः पतितफलमयं प्रार्थये द्भैक्षमन्नं
स्वात्मारामं प्रवेष्टुं स खलु सुखमयं प्रव्रजेद्देहोहतोऽपि ॥
</verse>
<verse>कामो बुद्धावुदेति प्रथममिह मनस्युद्दिशत्यर्थजातं
तद्गृह्णातीन्द्रियास्यैस्तदनधिगमतः क्रोध आविर्भवेच्च ।
प्राप्तावर्थस्य संरक्षणमतिरुदितो लोभ एतत्त्रयं स्या-
त्सर्वेषां पातहेतुस्तदिह मतिमता त्याज्यमध्यात्मयोगान् ॥
</verse>
<verse>दानं ब्रह्मार्पणं यत्क्रियत इह नृभिः स्यात्क्षमाक्रोधसंज्ञा
श्रद्धास्तिक्यं च सत्यं सदिति परमतः सेतुसंज्ञं चतुष्कम् ।
तत्स्याद्बन्धाय जन्तोरिति चतुर इमान्दानपूर्वैश्चतुर्भि-
स्तीर्त्वा श्रेयोऽमृतं च श्रयत इह नरः स्वर्गतिं ज्योतिराप्तिम् ॥
</verse>
</page>
<ignore>शतश्लोकी ।
<verse>तिष्ठन्गेहे गृहेशोऽप्यतिथिरिव निजं धाम गन्तुं चिकीर्षु-
र्देहस्थं दुःखसौख्यं न भजति सहसा निर्ममत्वाभिमानः ।
आयात्रायास्यतीदं जलदपटलवद्यातृ यास्यत्यवश्यं
देहाद्यं सर्वमेवं प्रविदितविशयो यश्च तिष्ठत्ययत्नः ॥ १६ ॥
<verse>शक्त्या निर्मोकतः स्वाद्वहिरहिरिव यः प्रव्रजन्स्वीयगेहा-
च्छायां मार्गद्रुमोत्थां पथिक इव मनाक्संश्रयेद्देहसंस्थाम् ।
क्षुत्पर्याप्तं तरुभ्यः पतितफलमयं प्रार्थये
स्वात्मारामं प्रवेष्टुं स खलु सुखमयं प्रव्रजेद्दे