This page has been fully proofread once and needs a second look.

<page>
<ignore>
७२
 
शतश्लोकी ।
 
</ignore>
<verse>
आत्माम्भोधेस्तरङ्गोऽस्म्यहमिति गमने भावयन्नासनस्थः

संवित्सूत्रानुविद्धो मणिरहमिति वास्मीन्द्रियार्थप्रतीतौ ।

दृष्टोऽस्म्यात्मावलोकादिति शयनविधौ मग्न आनन्द सिन्धा-

वन्तर्निष्ठो मुमुक्षुः स खलु तनुभृतां यो नयत्येवमायुः ॥
 
</verse>
<verse>
वैराजव्यष्टिरूपं जगदखिलमिदं नामरूपात्मकं स्या-

दन्तःस्थप्राणमुख्यात्प्रचलति च पुनर्वेत्ति सर्वान्पदार्थान् ।

नायं कर्ता न भोक्ता सवितृवदिति यो ज्ञानविज्ञानपूर्ण:
णः
साक्षादित्थं विजानन्व्यवहरति परात्मानुसंधानपूर्वम्
 
</verse>
<verse>
नैर्वेद्यं ज्ञानगर्भं द्विविधमभिहितं तत्र वैराग्यमाद्यं

प्रायो दुःखावलोकाद्भवति गृहसुहृत्पुत्रवित्तैषणादेः ।

अन्यज्ज्ञानोपदेशाद्यदुदितविषये वान्तवद्धेयता स्या-

त्प्रव्र
ज्यापि द्विधा स्यान्नियमितमनसां देहतो गेहतश्च ॥
 
</verse>
<verse>
यः कश्चित्सौख्यहेतोस्त्रिजगति यतते नैव दुःखस्य हेतो-

र्
देहेऽहंता तदुत्था स्वविषयममता चेति दुःखास्पदे द्वे ।

जानन्रोगाभिघाताद्यनुभवति यतो नित्यदेहात्मबुद्धि-

र्भार्यापुत्रार्थनाशे विपदमथ परामेति नारातिनाशे ॥ १५ ॥
 
</verse>
</page>