2026-02-24 05:23:10 by ambuda-bot
This page has not been fully proofread.
७२
शतश्लोकी ।
आत्माम्भोधेस्तरङ्गोऽस्म्यहमिति गमने भावयन्नासनस्थः
संवित्सूत्रानुविद्धो मणिरहमिति वास्मीन्द्रियार्थप्रतीतौ ।
दृष्टोऽस्म्यात्मावलोकादिति शयनविधौ मन आनन्द सिन्धा-
वन्तर्निष्ठो मुमुक्षुः स खलु तनुभृतां यो नयत्येवमायुः ॥
वैराजव्यष्टिरूपं जगदखिलमिदं नामरूपात्मकं स्या-
दन्तःस्थप्राणमुख्यात्प्रचलति च पुनर्वेत्ति सर्वान्पदार्थान् ।
नायं कर्ता न भोक्ता सवितृवदिति यो ज्ञानविज्ञानपूर्ण:
साक्षादित्थं विजानन्व्यवहरति परात्मानुसंधानपूर्वम ॥
नैर्वेद्यं ज्ञानगर्भ द्विविधमभिहितं तत्र वैराग्यमाद्यं
प्रायो दुःखावलोकाद्भवति गृहसुहृत्पुत्रवित्तैषणादेः ।
अन्यज्ज्ञानोपदेशाद्यदुदितविषये वान्तवद्धेयता स्या-
ज्यापि द्विधा स्यान्नियमितमनसां देहतो गेहतश्च ॥
यः कश्चित्सौख्यहेतोस्त्रिजगति यतते नैव दुःखस्य हेतो-
देहेऽहंता तदुत्था स्वविषयममता चेति दुःखास्पदे द्वे ।
जानन्रोगाभिघाताद्यनुभवति यतो नित्यदेहात्मबुद्धि-
र्भार्यापुत्रार्थनाशे विपदमथ परामेति नारातिनाशे ॥ १५ ॥