This page has not been fully proofread.

आत्मबोधः 1: 1
 
अनाद्यविद्यानिर्वाच्या कारणोपाधिरुच्यते ।
उपाधित्रितयादन्यमात्मानमवधारयेत् ॥ १४ ॥
 
पञ्चकोशादियोगेन तत्तन्मय इव स्थितः ।
शुद्धात्मा नीलवस्त्रादियोगेन स्फटिको यथा ॥ १५ ॥
 
वपुस्तुषादिभिः कोशैर्युक्तं युक्त्यवघाततः ।
आत्मानमान्तरं शुद्धं विविञ्च्यात्तण्डुलं यथा ॥ १६ ॥
 
सदा सर्वगतोऽप्यात्मा न सर्ववावभासते ।
बुद्धावेवावभासेत स्वच्छेषु प्रतिबिम्बवत् ॥ १७ ॥
 
देहेन्द्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम् ।
 
तद्वृत्तिसाक्षिणं विद्यादात्मानं राजवत्सदा ॥ १८ ॥
 
व्यापृतेष्विन्द्रियेष्वात्मा व्यापारीवाविवेकिनाम् ।
दृश्यतेऽषु धावत्सु धावन्निव यथा शशी ॥ १९॥
 
आत्मचैतन्यमाश्रित्य देहेन्द्रियमनोधियः ।
 
स्वकीयार्थेषु वर्तन्ते सूर्यालोकं यथा जनाः ॥ २० ॥
 
देहेन्द्रियगुणान्कर्माण्यमले सचिदात्मनि ।
 
अध्यस्यन्त्यविवेकेन गगने नीलतादिवत् ॥ २१ ॥
 
५९