This page has not been fully proofread.

४८
 
स्वात्मनिरूपणम् ।
 
असकृदनुचिन्तितानामव्याहततरनिजोपदेशानाम् ।
प्रामाण्यपरमसीम्नां निगमनमिदमेव निखिलनिगमानाम् ॥
 
इति बोधितः स गुरुणा शिष्यो हृष्टः प्रणम्य तं पदयोः ।
स्वानुभवसिद्धमर्थं स्वयमेवान्तर्विचारयामास ॥ १०४ ॥
 
अजरोऽहमक्षरोऽहं प्राज्ञोऽहं प्रत्यगात्मबोधोऽहम् ।
परमानन्दमयोऽहं परम शिवोऽहं भवामि परिपूर्ण: ॥
 
आद्योऽहमात्मभाजामात्मानन्दानुभूतिरसिकोऽहम् ।
आबालगोपमखिलैरहमित्यनुभूयमानमहिमाहम् ॥ १०६ ॥
 
इहपरसुखविमुखोऽहं निजसुखबोधानुभूतिभरितोऽहम् ।
इतिमतिदूरतरोऽहं भावेतरसुखनिषक्तचित्तोऽहम् ॥
 
ईशोऽहमीश्वराणामर्थ्याद्वेषानुषङ्गरहितोऽहम् ।
ईक्षणविषयमतीनामीप्सितपुरुषार्थसाधनपरोऽहम् ॥
 
उदयोऽहमेव जगतामुपनिषदुद्यानकृतविहारोऽहम् ।
उद्वेलशोकसागरबाडबमुखहव्यवाहनाचिरहम् ॥ १०९ ॥
 
ऊर्जस्वलनिजविभवैरूर्ध्वमधस्तिर्यगनुवानोऽहम् ।
 
ऊहापोहविचारैरुररीकृतवत्प्रतीयमानोऽहम् ॥ ११० ॥