2026-02-24 05:23:04 by ambuda-bot
This page has not been fully proofread.
स्वात्मनिरूपणम् ।
४५
यस्मान्न सोऽयमसतो वादः संभवति शास्त्रयुक्तिभ्याम् ।
तस्मात्सदेव तत्त्वं सर्वेषां भवति कारणं जगताम् ॥ ७९ ॥
जगदाकारतयापि प्रथते गुरुशिष्यविग्रहतयापि ।
ब्रह्माकारतयापि प्रतिभातीदं परात्परं तत्त्वम् ॥ ८० ॥
सत्यं जगदिति भानं संसृतये स्यादपक्कचित्तानाम् ।
तस्मादसत्यमेतन्निखिलं प्रतिपादयन्ति निगमान्ताः ॥
परिपक्कमानसानां पुरुषवराणां पुरातनैः सुकृतैः ।
बृह्मैवेदं सर्वं जगदिति भूयः प्रबोधयत्येषः ॥ ८२ ॥
अनवगतकाञ्चनानां भूषणधीरेव भूषणे है मे ।
एवमविवेकभाजां जगति जनानां न तात्त्विकी धिषणा ॥
अहमालम्बनसिद्धं कस्य परोक्षं भवेदिदं ब्रह्म ।
तदपि विचारविहीनैरपरोक्षयितुं न शक्यते मुग्धैः ॥
अहमिदमिति च मतिभ्यां सततं व्यवहरति सर्वलोकोऽपि ।
प्रथमा प्रतीचि चरमा निवसति वपुरिन्द्रियादिबाह्यार्थे ॥
वपुरिन्द्रियादिविषये याबुद्धिर्महत्यसौ भ्रान्तिः ।
तद्बुद्धिरतस्मिन्नित्यध्यासत्वेन शास्यमानत्वात् ॥ ८६ ॥