This page has not been fully proofread.

स्वात्मनिरूपणम् ।
 
वेदोsनादिरमुष्य व्यञ्जक ईश: स्वयंप्रकाशात्मा ।
तदभिव्यक्तिमुदीक्ष्य प्रोक्तोऽसौ सूरिभिः प्रमाणमिति ॥
 
रूपाणामवलोके चक्षुरिवान्यन्न कारणं दृष्टम् ।
दृष्टावगतौ वेदवदन्यो न वेदको हेतुः ॥ ४८ ॥
 
निगमेषु निश्चितार्थं तन्त्रे कश्चिद्यदि प्रकाशयति ।
तदिदमनुवादमात्रं प्रामाण्यं तस्य सिध्यति न किंचित् ॥
 
४१
 
अंशद्वयवति निगमे साधयति द्वैतमेव कोऽप्यंश: ।
अद्वैतमेव वस्तु प्रतिपादयति प्रसिद्धमपरोंऽशः ॥ ५० ॥
 
अद्वैतमेव सत्यं तस्मिन्द्वैतं न सत्यमध्यस्तम् ।
रजतमिव शुक्तिकायां मृगतृष्णायामिवोदकस्फुरणम् ॥
 
आरोपितं यदि स्यादद्वैतं वस्त्ववस्तुनि द्वैते ।
तदयुक्तमेव यस्मात्सत्येऽध्यासो भवत्यसत्यानाम् ॥ ५२ ॥
यद्यारोपणमुभयोस्तद्वद्यतिरिक्तस्य कस्यचिदभावात् ।
आरोपणं न शून्ये तस्मादद्वैतसत्यता ग्राह्या ॥ ५३ ॥
 
प्रत्यक्षाद्यनवगतं श्रुत्या प्रतिपादनीयमद्वैतम् ।
 
द्वैतं न प्रतिपाद्यं तस्य स्वत एव लोकसिद्धत्वात् ॥ ५४ ॥