This page has not been fully proofread.

स्वात्मनिरूपणम् ।
 
प्रत्यक्त्वपरोक्षत्वे परिपूर्णत्वं च सद्वितीयत्वम् ।
 
३९
 
इतरेतरं विरुद्धं तत इह भवितव्यमेव लक्षणया ॥ ३१ ॥
 
मानान्तरोपरोधान्मुख्यार्थस्यापरिग्रहे जाते ।
मुख्याविनाकृतेऽर्थे या वृत्तिः सैव लक्षणा प्रोक्ता ॥ ३२ ॥
 
निखिलमपि वाच्यमर्थे त्यक्त्वा वृत्तिस्तदन्वितेऽन्यार्थे ।
जहतीति लक्षणा स्याद्गङ्गायां घोषवदिह न ग्राह्या ॥
 
वाच्यार्थमत्यजन्त्या यस्या वृत्तेः प्रवृत्तिरन्यार्थे ।
इयमजहतीति कथिता शोणो धावतिवदत्र न ग्राह्या ॥
 
जहदजहतीति सा खाद्या वाच्यार्थैकदेशमपहाय ।
बोधयति चैकदेशं सोऽयं द्विज इतिवदाश्रयेदेनाम् ॥
 
सोऽयं द्विज इति वाक्यं त्यक्त्वा प्रत्यक्परोक्षदेशाद्यम् ।
द्विजमात्रलक्षकत्वात्कथयत्यैक्यं पदार्थयोरुभयोः ॥ ३६ ॥
 
तद्वत्तत्त्वमसीति त्यक्त्वा प्रत्यक्परोक्षतादीनि ।
चिद्वस्तु लक्षयित्वा बोधयति स्पष्टमसिपदेनैक्यम् ॥
 
इत्थं बोधितम महता वाक्येन दर्शितैक्येन ।
अहमित्यपरोक्षयतां वेदो वेदयति वीतशोकत्वम् ॥ ३८ ॥