This page has not been fully proofread.

॥ श्रीः ॥
 
॥ खात्मनिरूपणम् ॥
 
11
 
श्रीगुरुचरणद्वन्द्वं वन्देऽहं मथितदुः सहद्वन्द्वम् ।
भ्रान्तिग्रहोपशान्ति पांसुमयं यस्य भसितमातनुते ॥ १ ॥
देशिकवरं दयालुं वन्देऽहं निहतनिखिलसंदेहम् ।
यच्चरणद्वयमद्वयमनुभवमुपदिशति तत्पदस्वार्थम् ॥ २ ॥
 
संसारदावपावकसंतप्तः सकलसाधनोपेतः ।
स्वात्मनिरूपणनिपुणैर्वाक्यैः शिष्यः प्रबोध्यते गुरुणा ॥
 
अस्ति स्वयमित्यस्मिन्नर्थे कस्यास्ति संशयः पुंसः ।
अत्रापि संशयश्चेत्संशयिता यः स एव भवसि त्वम् ॥
नामिति वेत्ति योऽसौ सत्यं ब्रह्मैव वेत्ति नास्तीति ।
अहमस्मीति विजानन्ब्रह्मैवासौ स्वयं विजानाति ॥ ५ ॥
ब्रह्म त्वमेव तस्मान्नाहूंं ब्रह्मेति मोहमात्रमिदम् ।
मोहेन भवति भेदः क्लेशाः सर्वे भवन्ति तन्मूला: ॥ ६ ॥