This page has not been fully proofread.

वाक्यवृत्तिः ।
 
1
 
त्वमर्थमेवं निश्चित्य तदर्थं चिन्तयेत्पुनः ।
अतद्वयावृत्तिरूपेण साक्षाद्विधिमुखेन च ॥ २८ ॥
 
निरस्ताशेषसंसारदोषोऽस्थूलादिलक्षणः ।
अदृश्यत्वादिगुणकः पराकृततमोमलः ॥ २९ ।
 
निरस्तातिशयानन्दः सत्यः प्रज्ञानविग्रहः ।
सत्तास्वलक्षणः पूर्णः परमात्मेति गीयते ॥ ३० ॥
 
सर्वज्ञत्वं परेशत्वं तथा संपूर्णशक्तिता ।
 
वेदैः समर्ध्यते यस्य तद्ब्रह्मेत्यवधारय ॥ ३१ ॥
 
.
 
यज्ज्ञानात्सर्वविज्ञानं श्रुतिषु प्रतिपादितम् ।
मृदाद्यनेकदृष्टान्तैस्तद्ब्रह्मेत्यवधारय ॥ ३२ ॥
 
यदानन्त्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगौ ।
तत्कार्यत्वं प्रपञ्चस्य तद्ब्रह्मेत्यवधारय ॥ ३३ ॥
 
विजिज्ञास्यतया यश्च वेदान्तेषु मुमुक्षुभिः ।
समर्थ्यतेऽतियत्नेन तद्ब्रह्मेत्यवधारय ॥ ३४ ॥
 
जीवात्मना प्रवेशश्व नियन्तृत्वं च तान्प्रति ।
श्रूयते यस्य वेदेषु तद्ब्रह्मेत्यवधारय ॥ ३५ ॥
 
२९.