This page has not been fully proofread.

.२८
 
वाक्यवृत्तिः ।
 
अजडात्मवदाभान्ति यत्सांनिध्याज्जडा अपि ।
देहेन्द्रियमनः प्राणाः सोऽहमित्यवधारय ॥ २० ॥
 
अगमन्मे मनोऽन्यत्र सांप्रतं च स्थिरीकृतम् ।
एवं यो वेद धीवृत्तिं सोऽहमित्यवधारय ॥ २१ ॥
 
स्वप्नजागरिते सुप्तिं भावाभावौ धियां तथा ।
यो वेत्यविक्रियः साक्षात्सोऽहमित्यवधारय ॥ २२ ॥
 
घटावभासको दीपो घटादन्यो यथेष्यते ।
देहावभासको देही तथाहं बोधविग्रहः ॥ २३ ॥
 
पुत्रवित्तादयो भावा यस्य शेषतया प्रियाः ।
द्रष्टा सर्वप्रियतमः सोऽहमित्यवधारय ॥ २४ ॥
 
परप्रेमास्पदतया मा न भूवमहं सदा ।
भूयासमिति यो द्रष्टा सोऽहमित्यवधारय ॥ २५ ॥
 
यः साक्षिलक्षणो बोधस्त्वंपदार्थः स उच्यते ।
साक्षित्वमपि बोद्धत्वमविकारितयात्मनः ॥ २६ ॥
 
देहेन्द्रियमनः प्राणाहंकृतिभ्यो विलक्षणः ।
प्रोज्झिताशेषषड्भावविकारस्त्वंपदाभिधः ॥ २७ ॥